अमरकोशः


श्लोकः

उन्दुरुर्मूषकोऽप्याखुः गिरिका बालमूषिका । सरटः कृकलास: स्यान्मुसली गृहगोधिका ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उन्दुरु उन्दुरुः पुंलिङ्गः उन्द्विति । उरु बाहुलकात् उकारान्तः
2 मूषिक मूषिकः पुंलिङ्गः मुष्णाति । किकन् उणादिः अकारान्तः
3 आखु आखुः पुंलिङ्गः आ खनति । कु उणादिः उकारान्तः
4 गिरिका गिरिका स्त्रीलिङ्गः गिरति । उणादिः आकारान्तः
5 बालमूषिका बालमूषिका स्त्रीलिङ्गः क्षुद्रत्वात् बाला चासौ मूषिका च । तत्पुरुषः समासः आकारान्तः
6 सरट सरटः पुंलिङ्गः सरति । अटन् उणादिः अकारान्तः
7 कृकलास कृकलासः पुंलिङ्गः कृकं शिरो ग्रीवां कण्ठं च लासयति चालयति । तत्पुरुषः समासः अकारान्तः
8 मुसली मुसली स्त्रीलिङ्गः मुस्यति संशयम् । कलच् उणादिः ईकारान्तः
9 गृहगोधिका गृहगोधिका स्त्रीलिङ्गः गृहस्य गोधिका । कन् तद्धितः आकारान्तः