मुसली

सुधाव्याख्या

मुसेति । मुस्यति संशयम् । ‘मुस खण्डने' (दि० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वान्ङीष् । जातौ ङीष् (४.१.६३) — इति मुकुटः । तन्न । स्त्रीविषयत्वात् । ‘मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' (इति मेदिनी) ॥ तालव्यमध्या (मुशली) इति स्वामी ॥

प्रक्रिया

धातुः -

मुसँ खण्डने
मुस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुस् + कलच् - वृषादिभ्यश्चित् (१.१०६) । उणादिसूत्रम् ।
मुस् + अल - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुसल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
मुसल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुसल् + ई - यस्येति च 6.4.148
मुसली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मुसली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुसली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68