मूषिकः

सुधाव्याख्या

मुष्णाति । ‘मुष स्तेये' (क्र्या० प० से०) । ‘मुष्णातेर्दीर्घश्च (उ० २.४२) इति किकन् ॥ ‘मूष स्तेये' (भ्वा० प० से०) दीर्घोपधोऽस्ति । मूषति । ण्वुल् (३.१.१३३) । ‘भद्रमूषिक आसन्दी कुन्दुन्दुरुरुन्दर । मूषको वज्रदशनः क्रमः काण्डो बिले शयः' इति वाचस्पतिः ॥