गृहगोधिका

सुधाव्याख्या

अल्पा गोधा । ‘अल्पे (५.३.८५) इति कन् । गृहस्य गोधिका । ‘ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिका' इति साहसाङ्कः । ‘गृहगोलिका' इति पाठः सभ्यः इति स्वामी ॥