आखुः

सुधाव्याख्या

आ खनति । ‘खनु अवदारणे' (भ्वा० उ० से०) । ‘आङ्परयोः खनिशॄभ्यां डिच्च' (उ० १.३३) इत्युः । मुकुटस्तु - आङि खनिवंह्योर्नलोपश्च' इति कुर्नलोपश्च । बाहुलकादलोपः । इति सूत्रमुपन्यास्थत् । तच्चिन्त्यम् । उज्ज्वलदत्तादिविरोधात् ॥