अमरकोशः


श्लोकः

कालमेषी कृष्णफला वाकुची पूतिफल्यपि । कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कालमेषी कालमेषी स्त्रीलिङ्गः कालं मिषति । तत्पुरुषः समासः ईकारान्तः
1 कृष्ण्फला कृष्ण्फला स्त्रीलिङ्गः कृष्णं फलमस्याः । बहुव्रीहिः समासः आकारान्तः
3 वाकुची वाकुची स्त्रीलिङ्गः वातं कोचयति । तत्पुरुषः समासः ईकारान्तः
4 पूतिफली पूतिफली स्त्रीलिङ्गः पूति: फलेष्वस्याः बहुव्रीहिः समासः ईकारान्तः
5 कृष्णा कृष्णा स्त्रीलिङ्गः कृष्णो वर्णोऽस्त्यस्याः । अच् तद्धितः आकारान्तः
6 उपकुल्या उपकुल्या स्त्रीलिङ्गः उपकोलति । यक् उणादिः आकारान्तः
7 वैदेही वैदेही स्त्रीलिङ्गः विदेहेषु भवा । अण् तद्धितः ईकारान्तः
8 मागधी मागधी स्त्रीलिङ्गः मगधेषु भवा । अण् तद्धितः ईकारान्तः
9 चपला चपला स्त्रीलिङ्गः चपति । कलच् उणादिः आकारान्तः
10 कणा कणा स्त्रीलिङ्गः कणति । अच् कृत् आकारान्तः