चपला

सुधाव्याख्या

चपति । चप सान्त्वने (भ्वा० प० से०) । वृषादित्वात् (उ० १.१.१०६) कलच् । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च (इति मेदिनी) ॥