वाकुची

सुधाव्याख्या

वातं कोचयति । ‘कुच शब्दे तारे' (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । पृषोदरादिः (६.३.१०९) ॥ मुकुटस्तु–वाचं गुञ्जति । वागुजी' इत्याह । ‘गुजि अव्यक्ते शब्दे' (भ्वा० प० से०) । पूर्ववत् । गौरादिः (४.१.४१) ॥


प्रक्रिया