कालमेषी

सुधाव्याख्या

कालं मिषति । ‘मिष स्पर्धायाम्' (तु० प० से०) । ‘कर्मण्यण्' (३.२.१) ॥


प्रक्रिया

धातुः - मिषँ स्पर्धायाम्


मिष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काल + अम् + मिष् + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
काल + मिष् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
काल + मिष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काल + मेष् + अ - पुगन्तलघूपधस्य च 7.3.86
कालमेष + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
कालमेष + ई - हलन्त्यम् 1.3.3 लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कालमेष् + ई - यस्येति च 6.4.148
कालमेषी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कालमेषी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कालमेषी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68