अमरकोशः


श्लोकः

मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ । शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्दार मन्दारः पुंलिङ्गः मन्दान् इयर्ति । तत्पुरुषः समासः अकारान्तः
2 अर्कपर्ण अर्कपर्णः पुंलिङ्गः अर्काभानि तीक्ष्णानि पत्राण्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 अलर्क अलर्कः पुंलिङ्गः अस्मिन् शुक्ले । तत्पुरुषः समासः अकारान्तः
4 प्रतापस प्रतापसः पुंलिङ्गः प्रतापं चक्षुस्तेजः स्यति । तत्पुरुषः समासः अकारान्तः
5 शिवमल्ली शिवमल्ली स्त्रीलिङ्गः शिवप्रिया मल्ली ॥ तत्पुरुषः समासः ईकारान्तः
6 पाशुपत पाशुपतः पुंलिङ्गः पशुपतेरयम् । अण् तद्धितः अकारान्तः
7 एकाष्ठील एकाष्ठीलः पुंलिङ्गः एकमस्थि लाति । तत्पुरुषः समासः अकारान्तः
8 वुक वुकः पुंलिङ्गः बाहुलकात् कुकः । कुक् बाहुलकात् अकारान्तः
9 वसु वसुः पुंलिङ्गः वस्ते, वसति वा । उणादिः उकारान्तः