मन्दारः

सुधाव्याख्या

मन्दान् इयर्ति । अण् (३.२.१) । मन्दैरर्यते वा । घञ् (३.३.१९) । 'मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयो:' (इति मेदिनी) ॥