एकाष्ठीलः

सुधाव्याख्या

एकमस्थि लाति । ‘सुषामादित्वात्’ (८.३.९८) षत्वं दीर्घत्वं च । ‘एकाष्ठीला वनतिक्तकौषधौ पुंसि वकपुष्पे' (इति मेदिनी) ॥