अलर्कः

सुधाव्याख्या

अत्रेति । अस्मिन् शुक्ले । अलति । ‘अल भूषणादौ' (भ्वा० प० से०) । क्विप् (३.२.७६)। अल् चासावर्कश्च। 'अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे' (इति मेदिनी) । अलयति इति मुकुटः । तन्न । णावुपधावृद्धिप्रसङ्गात् ॥