अमरकोशः


श्लोकः

ऋष्यप्रोक्ता शूकशिम्बि: कपिकच्छुश्च मर्कटी । चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंवरी वृषा ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋष्यप्रोक्ता ऋष्यप्रोक्ता स्त्रीलिङ्गः ऋष्यैर्मृगैः प्रोक्ता । तत्पुरुषः समासः आकारान्तः
2 शूकशिम्बि शूकशिम्बिः स्त्रीलिङ्गः शूकयुक्ता शिम्बिः' । तत्पुरुषः समासः इकारान्तः
3 कपिकच्छु कपिकच्छुः स्त्रीलिङ्गः कपीनां कच्छूः । तत्पुरुषः समासः उकारान्तः
4 मर्कटी मर्कटी स्त्रीलिङ्गः मर्कटीव । ईकारान्तः
5 चित्रा चित्रा स्त्रीलिङ्गः चित्रं रूपमस्याः । बहुव्रीहिः समासः आकारान्तः
6 उपचित्रा उपचित्रा स्त्रीलिङ्गः उपगता चित्रम् ॥ तत्पुरुषः समासः आकारान्तः
7 न्यग्रोधी न्यग्रोधी स्त्रीलिङ्गः न्यग् रुणद्धि । अच् कृत् ईकारान्तः
8 द्रवन्ती द्रवन्ती स्त्रीलिङ्गः द्रवति । शतृ कृत् ईकारान्तः
9 शम्बरी शम्बरी स्त्रीलिङ्गः शं वृणोति । तत्पुरुषः समासः ईकारान्तः
10 वृषा वृषा स्त्रीलिङ्गः वर्षति । कृत् आकारान्तः