वृषा

सुधाव्याख्या

वर्षति । ‘वृषु सेचने' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । (‘वृषो धर्मे बलीवर्दे शृङ्ग्यां पुंराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च व्यासमूषिकशुक्रले । तथा वास्तुस्थानभेदे पुमानेष प्रकीर्तितः । वृषा मूषिकपर्ण्यां च, यतीनामासने वृषी') ॥