शूकशिम्बिः

सुधाव्याख्या

शूकयुक्ता शिम्बिः' । ‘शश्चच्छशाङ्कशिशिराणि च शूकशिम्बिः' इत्यूष्मविवेकात् द्वितालव्या । ‘शूकशिम्बिस्तु मर्कटी । शुकशिम्बा च' इति वाचस्पतिः ॥


प्रक्रिया

शूक + सु + शिम्बि + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
शूक + शिम्बि - सुपो धातुप्रातिपदिकयोः 2.4.71
शूकशिम्बि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शूकशिम्बि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शूकशिम्बि + रु - ससजुषो रुः 8.2.66
शूकशिम्बि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शूकशिम्बिः - खरवसानयोर्विसर्जनीयः 8.3.15