न्यग्रोधी

सुधाव्याख्या

न्यग् रुणद्धि । बहुमूलत्वात् । अच् (३.१.१३४) । गौरादिः (४.१.४१) - इति प्राञ्चः । न्यञ्चं रुणद्धि, इति वा । ‘कर्मण्यण् (३.२.१) । (न्यग्रोधस्तु पुमान्व्योमवटयोश्च शमीतरौ) । न्यग्रोधी तूपचित्रायाम्' (इति मेदिनी) ॥


प्रक्रिया

धातुः - रुधिँर् आवरणे


रुध् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
न्यग् + सु + रुध् + अच् - उपपदमतिङ् 2.2.19, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
न्यग् + रुध् + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
न्यग् +रुध् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
न्यग् + रोध - पुगन्तलघूपधस्य च 7.3.86
न्यग्रोध + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
न्यग्रोध + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
न्यग्रोध् + ई - यस्येति च 6.4.148
न्यग्रोधी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
न्यग्रोधी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
न्यग्रोधी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68