अमरकोशः


श्लोकः

मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । आत्मगुप्ताजडाऽव्यण्डा कण्डूरा प्रावृषायणी ॥ ८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मत्स्यपित्ता मत्स्यपित्ता स्त्रीलिङ्गः मत्स्यानां पित्तमिव तत्त्स्वादुत्वात् ॥ तत्पुरुषः समासः आकारान्तः
2 कृष्णभेदी कृष्णभेदी स्त्रीलिङ्गः कृष्णो वर्णेन भेदश्छेदोऽस्याः । बहुव्रीहिः समासः ईकारान्तः
3 चक्राङ्गी चक्राङ्गी स्त्रीलिङ्गः चक्राकारमङ्गमस्याः । बहुव्रीहिः समासः ईकारान्तः
4 शकुलादनी शकुलादनी स्त्रीलिङ्गः शकुलैर्मत्स्यभेदैरद्यते । तत्पुरुषः समासः ईकारान्तः
5 आत्मगुप्ता आत्मगुप्ता स्त्रीलिङ्गः आत्मना गुप्ता । तत्पुरुषः समासः आकारान्तः
6 जडा जडा स्त्रीलिङ्गः जडयति । अच् कृत् आकारान्तः
7 अव्यण्डा अव्यण्डा स्त्रीलिङ्गः न विगतमण्डमस्याः । बहुव्रीहिः समासः आकारान्तः
8 कण्डूरा कण्डूरा स्त्रीलिङ्गः कण्डूं राति । तत्पुरुषः समासः आकारान्तः
9 प्रावृषायणी प्रावृषायणी स्त्रीलिङ्गः प्रावृषामेति अयते तत्पुरुषः समासः ईकारान्तः