जडा

सुधाव्याख्या

जडयति । 'तत्करोति-' (वा० ३.१.२६) इति णिजन्तादच् (३.१.१३४) । ‘जडा स्त्रियाम् । शूकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु तु त्रिषु' ('इति मेदिनी) । मुकुटस्तु-कण्ड्वादिना दौःस्थ्यजननादिन्द्रियाणि जडयति स्तम्भयति । ‘जल अपवारणे' (चु० प० से०) इत्यवोचत् । तन्न । णौ वृद्धिप्रसङ्गात् । जडति वा । डलयोरैक्यात् ॥ न जहाति शूकान् । अजहा । ‘ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी' इतीन्दुः - इति स्वामी ॥