अव्यण्डा

सुधाव्याख्या

न विगतमण्डमस्याः । 'अव्यण्डा वृषभी गुप्ता' इतीन्दुः । मुकुटस्तु - अधिकमण्डं बीजमस्याः, अभिकममति । 'अम रोगे' (भ्वा० प० से०) । ‘ञमन्ताड्डः' (उ० १.११४) वा । अध्यण्डा-इत्याह । तत्र मूलं मृग्यम् ॥


प्रक्रिया

वि + अण्ड + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
वि + अण्ड - सुपो धातुप्रातिपदिकयोः 2.4.71
व्यण्ड - इको यणचि 6.1.77
नञ् + व्यण्ड + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + व्यण्ड - सुपो धातुप्रातिपदिकयोः 2.4.71
न + व्यण्ड - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + व्यण्ड - नलोपो नञः 6.3.73
अव्यण्ड + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अव्यण्ड + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अव्यण्डा - अकः सवर्णे दीर्घः 6.1.101
अव्यण्डा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अव्यण्डा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव्यण्डा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68