कण्डूरा

सुधाव्याख्या

कण्डूं राति । ‘रा दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥ पृषोदरादित्वात् (६.३.१०९) ह्रस्वत्वमपि । ‘कपिकच्छूश्च कण्डूरा कण्डुरा शूकशिम्बिका' इतीन्दुः । मुकुटस्तु – कण्डूरस्त्यस्याः । ‘कण्डूकच्छूभ्यां ह्रस्वश्च' इति रोः ह्रस्वत्वं च – इत्याह । तन्न । उक्तवार्तिकस्यादर्शनात् ॥