शकुलादनी

सुधाव्याख्या

शकुलैर्मत्स्यभेदैरद्यते । अत्तेः कर्मणि ल्युट् (३.३.११३) । ‘शकुलादनी स्त्रियां कृष्णभेदे कटुकशाकयोः (इति मेदिनी) ॥


प्रक्रिया

धातुः - अदँ भक्षणे


अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शकुल + भिस् + अद् + ल्युट् - उपपदमतिङ् 2.2.19, कृत्यल्युटो बहुलम् 3.3.113
शकुल + अद् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
शकुल + अद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शकुल + अद् + अन - युवोरनाकौ 7.1.1
शकुलादन - अकः सवर्णे दीर्घः 6.1.101
शकुलादन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
शकुलादन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शकुलादन् + ई - यस्येति च 6.4.148
शकुलादनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शकुलादनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शकुलादनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68