अमरकोशः


श्लोकः

एकाष्ठीला पापचेली प्राचीना वनतिक्तिका । कटुः कटंवराऽशोकरोहिणी कटुरोहिणी ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एकाष्ठीला एकाष्ठीला स्त्रीलिङ्गः तत्पुरुषः समासः आकारान्तः
2 पापचेली पापचेली स्त्रीलिङ्गः पापे चलति । तत्पुरुषः समासः ईकारान्तः
3 प्राचीना प्राचीना स्त्रीलिङ्गः प्राचि भवा । आकारान्तः
4 वनतिक्तिका वनतिक्तिका स्त्रीलिङ्गः वने तिक्ता । कन् तद्धितः आकारान्तः
5 कटु कटुः स्त्रीलिङ्गः कटति उणादिः उकारान्तः
6 कटंवरा कटंवरा स्त्रीलिङ्गः कटं (रोगम्) वृणोति । तत्पुरुषः समासः आकारान्तः
7 अशोकरोहिणी अशोकरोहिणी स्त्रीलिङ्गः अशोक इव रोहति । तत्पुरुषः समासः ईकारान्तः
8 कटुरोहिणी कटुरोहिणी स्त्रीलिङ्गः कटुश्चासौ रोहिणी च । तत्पुरुषः समासः ईकारान्तः