कटुः

सुधाव्याख्या

केति । कटति 'कटे वर्षावरणयो:' (भ्वा० प० से०) । ‘शृस्वृस्निहि-' (उ० १.१०) इत्यत्र चकारादुः । ‘वटिकटिभ्यां च' इत्युः – तन्न । उज्ज्वलदत्तादिषु तत्सूत्रस्यादर्शनात् । कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । (नपुंसकमकार्ये स्यात्पुंलिङ्गे रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च) (इति मेदिनी) ॥