अशोकरोहिणी

सुधाव्याख्या

अशोक इव रोहति । ‘कर्तर्युपमाने (३.२.७९) इति णिनिः । ‘अशोकरोहिणी शक्ता चक्राङ्गी शकुलादनी' इति निघण्टुः ॥ व्यस्तमपीदं नाम । ‘अशोकः कटुरोहिण्यामशोको वञ्जुलद्रुमे' इति रभसः । (‘अशोकस्त्रिषु नि:शोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्या पारदे स्यान्नपुंसकम्’ (इति मेदिनी) ॥ ‘रोहिणी कटुरोहिण्याम्' इति रुद्रः । ‘रोहिणी कण्ठरुग्भिदि । भभित्कटंभरासोमवल्केषु लोहितागवोः । (इति मेदिनी) ॥


प्रक्रिया

धातुः - रुहँ बीजजन्मनि प्रादुर्भावे च


रुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अशोक + सु + रुह् + णिनि - कर्तर्युपमाने 3.2.79
अशोक + रुह् + णिनि - सुपो धातुप्रातिपदिकयोः 2.4.71
अशोक + रुह् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
अशोक + रोह् + इन् - पुगन्तलघूपधस्य च 7.3.86
अशोकरोहिण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
अशोकरोहिण् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
अशोकरोहिण् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8 ,तस्य लोपः 1.3.9
अशोकरोहिणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अशोकरोहिणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अशोकरोहिणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68