कटंवरा

सुधाव्याख्या

कटति । अच् (३.१.१३४) । कटं (रोगम्) वृणोति । ‘वृञ् वरणे' (स्वा० उ० से०) । ‘संज्ञायां भृतॄ-' (३.२.४६) इति खच् । 'अरुद्विषत्-' (६.३.६७) इति मुम् ॥ -‘कटम्भरा इति पाठः – इत्यन्ये । ‘कठंभरा प्रसारण्यां रोहिण्यां गजयोषिति । कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि' (इति मेदिनी) ॥


प्रक्रिया

धातुः - कटेँ वर्षावरणयोः , वृञ् वरणे


कटेँ वर्षावरणयोः
कट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कट - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृञ् वरणे
वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कट + अम् + वृ + खच् - उपपदमतिङ् 2.2.19, संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
कट + वृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
कट + वृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कट + वर् + अ - सुपो धातुप्रातिपदिकयोः 2.4.71
कट + मुम् + वर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
कट + म् + वर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कटंवर - नश्चापदान्तस्य झलि 8.3.24
कटंवर + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कटंवर + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कटंवरा - अकः सवर्णे दीर्घः 6.1.101
कटंवरा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कटंवरा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कटंवरा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68