अमरकोशः


श्लोकः

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ । उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करवीर करवीरः पुंलिङ्गः करं वीरयति । तत्पुरुषः समासः अकारान्तः
2 करीर करीरः पुंलिङ्गः किरति । ईरन् उणादिः अकारान्तः
3 क्रकर क्रकरः पुंलिङ्गः ‘क्र' इति करोति । अच् कृत् अकारान्तः
4 ग्रन्थिल ग्रन्थिलः पुंलिङ्गः ग्रन्थिरस्यास्ति । अकारान्तः
5 उन्मत्त उन्मत्तः पुंलिङ्गः उन्मत्तयति । अच् कृत् अकारान्तः
6 कितव कितवः पुंलिङ्गः कितवाः सन्त्यस्य ग्राहकाः । अच् तद्धितः अकारान्तः
7 धूर्त धूर्तः पुंलिङ्गः धूर्व्यते स्म । क्त कृत् अकारान्तः
8 धत्तूर धत्तूरः पुंलिङ्गः धयति धातून् । ऊरच् बाहुलकात् अकारान्तः
9 कनकाह्वय कनकाह्वयः पुंलिङ्गः कनकमाह्वयो यस्य । बहुव्रीहिः समासः अकारान्तः