करीरः

सुधाव्याख्या

करीति । किरति । ‘कॄ विक्षेपे' (तु० प० से०) । ‘कॄशॄपॄकटिशौटिभ्य ईरन्' (उ० ४.३०) । यत्तु-‘कॄगॄशौडिभ्यः ईरच्’ - इति मुकुटः । तन्न । उणादिवृत्तिषु तत्पाठस्यादर्शनात् । करिणमीरयति वा । ‘वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्धटयो: पुमान् । करीरी चीरिकायां च दन्तमूले च दन्तिनाम्' (इति मेदिनी) ॥