धूर्तः

सुधाव्याख्या

धूर्व्यते स्म । ‘धुर्वी हिंसायाम्' (भ्वा० प० से०) । कर्मणि क्तः (३.२.१०२) । धूर्वति – इति तु प्राञ्चः । तत्र कर्तरि क्तो दुर्लभः । ‘मतिबुद्धिपूजार्थेभ्यश्च' (३.२.१८८) इति चकाराद्वा बोध्यः । यद्वा धूर्वणं धूर्तम् । भावे क्त: (३.३.११३) । तदस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘धूर्तं तु खण्डलवने धूस्तूरे ना विटे त्रिषु' (इति मेदिनी) ॥