कितवः

सुधाव्याख्या

कितवाः सन्त्यस्य ग्राहकाः । अर्शआद्यच् (५.२.१२७)। कितान् निवसतो वञ्चति । ‘वञ्चु गतौ' (भ्वा० प० से०) । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । 'कितवो धूर्तवन्मत्ते वञ्चके कनकाह्वये' (इति विश्व:) ॥