धत्तूरः

सुधाव्याख्या

धयति धातून् । 'धेट् पाने' (भ्वा० प० अ०) । बाहुलकादूरच् । पृषोदरादिः (६.२.१०९) । धत्तूरस्तु स्मृतो धूर्तो देविता कितवः शठः' इति स्वामी ॥ धूसयति । ‘धूस कान्तिकरणे' (चु० प० से०) । क्विप् (३.२.१७८) । तूर्यते । ‘तूरी त्वरणहिंसयो:' (दि० आ० से०) । इगुपधत्वात् कः (३.१.१३५) । धूश्चासौ तूरश्च । ‘धुस्तुरस्तु पुण्डरीको धूस्तूरः कनकाह्वयः' इति शब्दार्णवः । इति मुकुटः ॥