अमरकोशः


श्लोकः

सैरेयकस्तु झिंटी स्यात्तस्मिन् कुरबकोऽरुणे । पीता कुरण्टको झिंटी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सैरीयक सैरीयकः पुंलिङ्गः सीरे भवः । तद्धितः अकारान्तः
2 झिण्टी झिण्टी स्त्रीलिङ्गः तत्पुरुषः समासः ईकारान्तः
3 कुरवक कुरवकः पुंलिङ्गः अकारान्तः
4 कुरण्टक कुरण्टकः पुंलिङ्गः अकारान्तः
5 सहचरी सहचरी पुंलिङ्गः, स्त्रीलिङ्गः सह चरति । ईकारान्तः