कुरण्टकः

सुधाव्याख्या

कुर्यते । ‘कुर छेदने' (तु० प० से०) । बाहुलकादण्टः । स्वार्थे कन् (५.३.७५) । (‘कुरण्टी दारुपुत्र्यां ना झिंट्यम्लानप्रभेदयोः' इति मेदिनी) । इत्येकोकारवान् इति कश्चित् । तत्र ‘कुर शब्दे' (तु० प० से०) इति पठितुं युक्तम् ॥