झिण्टी

सुधाव्याख्या

‘झिम्' इति रटति अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । गौरादिङीष् (४.१.४१)॥


प्रक्रिया

धातुः - रटँ परिभाषणे


रट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झिम् + सु + रट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
झिम् + रट् + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
झिम् + रट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
झिंट - पृषोदरादीनि यथोपदिष्टम् 6.3.109
झिण्ट - अनुस्वारस्य ययि परसवर्णः 8.4.58
झिण्ट + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
झिण्ट + ई - हलन्त्यम् 1.3.3 ,लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
झिण्ट्+ ई - यस्येति च 6.4.148
झिण्टी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
झिण्टी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झिण्टी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68