सहचरी

सुधाव्याख्या

पीतेति । सह चरति । पचादौ चरट्' इति टित्त्वनिपातनात् ङीप् (४.१.१५) । यत्तु-‘भिक्षासेना-' (३.२.१७) इति चकारस्यानुक्तसमुच्चयार्थत्वात् ‘चरेष्ट:'- इत्याह मुकुटः । तन्न । तत्र प्रमाणाभावात् । (‘भवेत्सहचरो झिंट्यां द्वयोरनुचरे त्रिषु' इति मेदिनी) ॥ ‘अन्येषामपि' (६.३.१३७) इति दीर्घत्वे ‘सहाचर:' इत्यपि, इति स्वामी - इति मुकुटः । तदपि न । आङैव सिद्धत्वात् ॥