सैरीयकः

सुधाव्याख्या

सैरीयेति । सीरे भवः । तत्र भव:' (४.३.५३) इत्यण् । कर्षः । तत्र भवः । ‘वृद्धाच्छ:' (४.२.११४) । ‘संज्ञायां कन्’ (५.३.७५) । ‘सैरेयकः' इति पाठे ‘नद्यादिभ्यो ढक्’ (४.२.९७) । ‘सैरीयक: सहचरः सैरेयश्च सहाचरः । पीतो रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् । पीतः कुरुण्टको ज्ञेयो रक्त: कुरुवकः स्मृतः । नील आर्तगलो दासीवाणा ओदनपाक्यपि ॥


प्रक्रिया

सीर + ङि + अण् - तत्र भवः 4.3.53
सीर + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सीर + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सीर् + अ - यस्येति च 6.4.148
सैर - तद्धितेष्वचामादेः 7.2.117
सैर + ङि + छ - वृद्धाच्छः 4.2.114
सैर + छ - सुपो धातुप्रातिपदिकयोः 2.4.71
सैर + ईय् + अ - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
सैर् + ईय - यस्येति च 6.4.148
सैरीय + कन् - संज्ञायां कन् 5.3.75
सैरीयक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सैरीयक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सैरीयक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सैरीयक + रु - ससजुषो रुः 8.2.66
सैरीयक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सैरीयकः - खरवसानयोर्विसर्जनीयः 8.3.15