अमरकोशः


श्लोकः

पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः । काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पनस पनसः पुंलिङ्गः पनाय्यते स्तूयते । असच् उणादिः अकारान्तः
2 कण्टकिफल कण्टकिफलः पुंलिङ्गः कण्टकाः सन्त्यस्य । बहुव्रीहिः समासः अकारान्तः
3 निचुल निचुलः पुंलिङ्गः नीति निचोलति । कृत् अकारान्तः
4 हिज्जल हिज्जलः पुंलिङ्गः हित् जलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 अम्बुज अम्बुजः पुंलिङ्गः अम्बुनि जातः । तत्पुरुषः समासः अकारान्तः
6 काकोन्दुम्बरिका काकोन्दुम्बरिका स्त्रीलिङ्गः काकप्रिया उदुम्बरी । कन् तद्धितः आकारान्तः
7 फल्गु फल्गुः स्त्रीलिङ्गः फलति । गुक् उणादिः उकारान्तः
8 मलपू मलपूः स्त्रीलिङ्गः मलात् पापात् पुनाति । तत्पुरुषः समासः ऊकारान्तः
9 जघनेफला जघनेफला स्त्रीलिङ्गः जघने फलं यस्याः । बहुव्रीहिः समासः आकारान्तः