काकोन्दुम्बरिका

सुधाव्याख्या

केति । काकप्रिया उदुम्बरी । ‘संज्ञायां कन्' (५.३.७५) ॥


प्रक्रिया

काक + सु + उदुम्बरी + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
काक + उदुम्बरी - सुपो धातुप्रातिपदिकयोः 2.4.71
काकोदुम्बरी - आद्गुणः 6.1.87
काकोदुम्बरी + कन् - संज्ञायां कन् 4.3.147
काकोदुम्बरी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काकोदुम्बरिक - केऽणः 7.4.13
काकोदुम्बरिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
काकोदुम्बरिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काकोदुम्बरिका - अकः सवर्णे दीर्घः 6.1.101
काकोदुम्बरिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काकोदुम्बरिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काकोदुम्बरिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68