पनसः

सुधाव्याख्या

पनेति । पनाय्यते स्तूयते । 'वेतसवाहस-' इत्यसजन्तो निपातितः । ‘पनसः कण्टकिफले कण्टके वानरान्तरे । स्त्रियां रोग प्रभेदे स्यात्' इति मेदिनी ॥ 'पणसः' इत्यपि पाठः ॥