मलपूः

सुधाव्याख्या

'मलं पापे च किट्टे च वर्चस्के कृपणे मलः' इति धरणिः । मलात् पापात् पुनाति । ‘पूञ् पवने' (क्र्या० प० से०) । क्विप् (३.२.१७८) । मलं यवते । ‘यु जुगुप्सायाम्' (चु० आ० से०) । क्विप् (३.२.१७८) । बाहुलकाद्दीर्घः । यद्वा मलते । ‘मल धारणे' (भ्वा० आ० से०) । बाहुलकादयूः । ‘मलयूः' इति वा पाठः ॥