निचुलः

सुधाव्याख्या

नीति निचोलति । 'चुल समुच्छ्राये' (चु० प० से०) | चुरादीनां णिज्वा । ‘इगुपध-' (३.१.१३५) इति कः । यत्तु निचोल्यते इति विगृह्य ‘घञर्थे कः' (वा० ३.३.५८) इत्युक्तं मुकुटेन । तन्न । परिगणनविरोधात् । अन्तरङ्गत्वेन (णिजाश्रय) गुणप्रसङ्गाच्च । 'निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे' इति मेदिनी ॥