अमरकोशः


श्लोकः

श्रीपर्णमग्निमन्थ: स्यात्कणिका गणिकारिका । जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्रीपर्ण श्रीपर्णः नपुंसकलिङ्गः श्री: पर्णेषु यस्य । बहुव्रीहिः समासः अकारान्तः
2 अग्निमन्थ अग्निमन्थः पुंलिङ्गः अग्निं मथ्नाति । तत्पुरुषः समासः अकारान्तः
3 कणिका कणिका स्त्रीलिङ्गः कणति । क्वुन् उणादिः आकारान्तः
4 गणिकारिका गणिकारिका स्त्रीलिङ्गः गणिं करोति । तत्पुरुषः समासः आकारान्तः
5 जय जयः पुंलिङ्गः जयति । अच् कृत् अकारान्तः
6 कुटज कुटजः पुंलिङ्गः कूटे शृङ्गे जायते स्म । तत्पुरुषः समासः अकारान्तः
7 शक्र शक्रः पुंलिङ्गः शक्नोति । रक् उणादिः अकारान्तः
8 वत्सक वत्सकः पुंलिङ्गः वदति । कन् तद्धितः अकारान्तः
9 गिरिमल्लिका गिरिमल्लिका स्त्रीलिङ्गः गिरिमल्लीव । कन् तद्धितः आकारान्तः