शक्रः

सुधाव्याख्या

शक्नोति । ‘शक्लृ शक्तौ' (स्वा० प० अ०) । ‘स्फायितञ्चि (उ० २.१३) इति रक् । ‘शक्रः पुमान् देवराजे कुटजार्जुनभूरुहोः' ॥


प्रक्रिया

धातुः - शकॢँ शक्तौ


शक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शक् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
शक् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शक्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शक्र + रु - ससजुषो रुः 8.2.66
शक्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शक्रः - खरवसानयोर्विसर्जनीयः 8.3.15