कुटजः

सुधाव्याख्या

अथेति । कूटे शृङ्गे जायते स्म । ‘सप्तम्यां जनेर्ड:' (३.२.९७) । पृषोदरादिः (६.३.१०९) ॥ प्रज्ञाद्यणि (५.४.३८) कौटजश्च । 'कौटजः कुटज: कोटी' इति चन्द्रः । (‘कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि’) ॥