गणिकारिका

सुधाव्याख्या

गणनम् । ‘गण संख्याने' (चु० उ० से०) । 'इक् कृष्यादिभ्यः (वा० ३.३.१०८) । गणिं करोति । ‘कर्मण्यण्' (३.२.१) । ङीप् (४.१.१५) । स्वार्थे कन् (५.३.७५) । यद्वा गणयति । ऋच्छति । ण्वुल् (३.१.१३३) । गणिका चासावारिका च ॥


प्रक्रिया

धातुः - गण सङ्ख्याने , डुकृञ् करणे


गण सङ्ख्याने
गण + इक् - इक् कृष्यादिभ्यः (3.3.108) । वार्तिकम् ।
गण + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
गणि + अम् + कृ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
गणि + कृ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
गणि + कृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गणि + कार् + अ - अचो ञ्णिति 7.2.115
गणिकार + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
गणिकार + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गणिकार् + ई - यस्येति च 6.4.148
गणिकारी + कन् - संज्ञायां कन् 5.3.75
गणिकारी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गणिकारिक - केऽणः 7.4.13
गणिकारिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
गणिकारिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गणिकारिका - अकः सवर्णे दीर्घः 6.1.101
गणिकारिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गणिकारिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गणिकारिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68