अमरकोशः


श्लोकः

स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्योनाक स्योनाकः पुंलिङ्गः सीव्यति । अकारान्तः
2 शुकनास शुकनासः पुंलिङ्गः शुकनासा इव पुष्पमस्यास्ति । अच् तद्धितः अकारान्तः
3 ऋक्ष ऋक्षः पुंलिङ्गः ऋषति । उणादिः अकारान्तः
4 दीर्घवृन्त दीर्घवृन्तः पुंलिङ्गः दीर्घं वृन्तमस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 कुटन्नट कुटन्नटः पुंलिङ्गः कुटन् वक्रीभवन् नटति । समासः अकारान्तः
6 शोणक शोणकः पुंलिङ्गः शोणति । कन् तद्धितः अकारान्तः
7 अरलु अरलुः पुंलिङ्गः इयर्ति । अरु उणादिः उकारान्तः
8 तिष्यफला तिष्यफला स्त्रीलिङ्गः तिष्यं मङ्गल्यं फलमस्याः । बहुव्रीहिः समासः आकारान्तः
9 आमलकी आमलकी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आमलते । क्वुन् उणादिः ईकारान्तः