अरलुः

सुधाव्याख्या

इयर्ति । अर्तेररु:' (उ० ४.७९) । कपिलिकादिः (वा० ८.२.१८) ॥


प्रक्रिया

धातुः - ऋ गतौ


ऋ + अरु - अर्तेररुः (४.७९) । उणादिसूत्रम् ।
अर् + अरु - सार्वधातुकार्धधातुकयोः 7.3.84
अरलु - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (8.2.18) । वार्तिकम् ।
अरलु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अरलु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अरलु + रु - ससजुषो रुः 8.2.66
अरलु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अरलुः - खरवसानयोर्विसर्जनीयः 8.3.15