स्योनाकः

सुधाव्याख्या

सीव्यति । षिवु तन्तुसंताने' (दि० प० से०) । बाहलकान्नः । अन्तरङ्गत्वाद्यण् (६.१.७७) । ‘स्योनः किरणसूर्ययोः' । तेनाकति, अक्यते, वा । ‘अक कुटिलायां गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा ॥ श्यायते । ‘श्यैङ् गतौ’ (भ्वा० प० अ०) । पिनाकादौ (उ० ४.१५) निपातितः । श्योनाकः' तालव्यादिरपि ॥


प्रक्रिया

धातुः - षिवुँ तन्तुसन्ताने , अकँ कुटिलायां गतौ


षिवुँ तन्तुसन्ताने
षिव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सिव् - धात्वादेः षः सः 6.1.64
सिव् + न - बाहुलकात् ।
सि + ऊठ् + न - सिवेष्ठेर्यू च (३.९) । उणादिसूत्रम् ।
सि + ऊ + न - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स् य् + ऊ + न - इको यणचि 6.1.77
स्योन - सार्वधातुकार्धधातुकयोः 7.3.84
अकँ कुटिलायां गतौ
अक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अक् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
अक् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्योन + टा + अक + सु - उपपदमतिङ् 2.2.19
स्योन + अक - सुपो धातुप्रातिपदिकयोः 2.4.71
स्योनाक - अकः सवर्णे दीर्घः 6.1.101
स्योनाक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्योनाक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्योनाक + रु - ससजुषो रुः 8.2.66
स्योनाक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्योनाकः - खरवसानयोर्विसर्जनीयः 8.3.15