अमरकोशः


श्लोकः

कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृष्णवृन्ता कृष्णवृन्ता स्त्रीलिङ्गः कृष्णं वृन्तमस्याः । बहुव्रीहिः समासः आकारान्तः
2 कुबेराक्षी कुबेराक्षी स्त्रीलिङ्गः कुबेरस्येवाक्षि यस्याः । तत्पुरुषः समासः ईकारान्तः
3 श्यामा श्यामा स्त्रीलिङ्गः श्यामो वर्णोऽस्त्यस्याः । आकारान्तः
4 महिलाह्वया महिलाह्वया स्त्रीलिङ्गः महिलाया आह्वय आह्वयो यस्याः । आकारान्तः
5 लता लता स्त्रीलिङ्गः लतति । आकारान्तः
6 गोवन्दनी गोवन्दनी स्त्रीलिङ्गः गवि भूमौ वन्द्यते । ईकारान्तः
7 गुन्द्रा गुन्द्रा स्त्रीलिङ्गः गुन्द्रयति । अच् कृत् आकारान्तः
8 प्रियङ्गु प्रियङ्गुः स्त्रीलिङ्गः प्रियं गच्छति । तत्पुरुषः समासः उकारान्तः
9 फलिनी फलिनी स्त्रीलिङ्गः फलमस्त्यस्याः । इनि तद्धितः ईकारान्तः
10 फली फली स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः