गोवन्दनी

सुधाव्याख्या

गवि भूमौ वन्द्यते । ‘वदि अभिवादनस्तुत्योः' (भ्वा० आ० से०) । कर्मणि ल्युट् (३.३.११३) ।


प्रक्रिया

धातुः - वदिँ अभिवादनस्तुत्योः


वद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व + नुम् + द् - इदितो नुम् धातोः 7.1.58
व + न् + द् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गो + ङि + वन्द् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113, उपपदमतिङ् 2.2.19
गो + वन्द् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + वन्द् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गो + वन्द् + अन - युवोरनाकौ 7.1.1
गोवन्दन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
गोवन्दन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गोवन्दन् + ई - यस्येति च 6.4.148
गोवन्दनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोवन्दनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोवन्दनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68